मंगलवार, 26 जुलाई 2011

प्रचारलोलुपता
वयं प्रचारयुगे वर्तामहे ।
सर्वेऽधुना प्रचारं वाञ्छन्ति ।
वैद्या अध्यापका न्यायवादिनः इति सर्वे
स्वप्रचारं क र्तुम् अपेक्षन्ते ।
संन्यासिनो विरक्ता इति ख्याता अपि
प्रचारासक्तास्सन्ति । मम चित्रं पत्रिकासु
अग्रपृष्ठे भवतु, सर्वे लोका मां जानन्तु,
दूरदर्शने अहं दृश्यै, मम कीर्तिः सर्वत्र
प्रसरतु इति सर्वे कामयन्ते । एतदर्थं केचन
साहसं कु र्वन्ति । पञ्चसु निमेषेषु
विंशतिं इडलिकाः खादितवान्
इति कीर्तेः कश्चन भवति पात्रम् ।
अपरः अतिदीर्घनखः इति प्रसिद्धो भवति ।
सप्रयोजनमप्रयोजनं वा असाधारणं कार्यं
कृत्वा प्रसिद्धिं प्राप्तुमिच्छन्ति केचन
। अत एव कालिदासेनोक्त म् अप्यप्रसिद्धं
यशसे हि पुंसामनन्यसाधारणमेव कर्म
इति कुमारसम्भवे । वनमहोत्सव आचर्यते ।
गर्तान् खातुं वृक्षान् रोपयितुं जलं
सेक्तुं वा विरला जना आगच्छन्ति । किन्तु
वनमहोत्सववार्तां सचित्रां
प्रसिद्धपत्रिकायां प्रकटयिष्यामीति
छायाचित्रग्राहको यदा गच्छति,
तदा शतशो जना आगच्छन्ति । हस्ते रोपणीयं
वृक्षकं जलकुम्भं खनित्रं
वा गृहीत्वा स्वचित्रं ग्राहयन्ति । रोगिषु
अनुकम्पालेशरहिता अपि फलानि रोगिभ्यः
पुण्यार्थं दद्मः इति उक्त्वा चित्रं
ग्राहयित्वा प्रकटनाय पत्रिकालयं
प्रेषयन्ति । संस्थाः प्रचाराय प्रत्यहं
लक्षशो धनं व्ययीकु र्वन्ति ।
निर्वाचनवेलायां प्रचाराय व्ययीक्रियमाणं
धनं कुबेरमपि ह्रेपयति । प्रचारप्रियता न
श्रेयसी । प्रचाराय कृतं दानं न दानम् । एतद्
यदि जना अवगच्छन्ति, तर्हि सर्वेषां श्रेयः ।
Monday, June 14th, 2010 at 2:30 pm